अगस्ति र्माधवश्चैव मुचुकुन्दो महाबलः।

कपिलो मुनि रास्तीकः पंचैते सुखशायिनः।। 29

केशवं माधवं विष्णुं शेषशायिन मच्युतम्।

हंसं नारायणं कृष्णं स्मरे द्दुस्स्वप्न शान्तये।। 30

ब्रह्माणं शंकरं विष्णुं यमं रामं दनुं बलिम्।

सप्तैतान् य स्स्मरेन्नित्यं दुस्स्वप्न स्तस्य नश्यति।। 31