जपाकुसुम संकाशं काश्यपेयं महाद्युतिम्।

तमोघ्नं सर्वपापघ्नं प्रणतोस्मि दिवाकरम्।। 100

दधिशंख तुषाराभं क्षीरोदार्णव सम्भवम्।

नमामि शशिनं सोमं शंभो र्मकुट भूषणम्।। 101

धरणीगर्भ संभूतं विद्युत्कान्ति समप्रभम्।

कुमारं शक्तिहस्तञ्च मंगळं प्रणमाम्यहम्।। 102

प्रियंगु कलिकाश्यामं रूपेणाप्रतिमं बुधम्।

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्।। 103

देवानां च ऋषीणां च गुरुं कांचनसन्निभम्।

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्।। 104

हिमकुंद मृणालाभं दैत्यानां परमं गुरुम्‌।

सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम्।। 105 नीलांजन समाभासं रविपुत्रं यमाग्रजम्।

छायामार्तांडसंभूतं तं नमामि शनैश्चरम्।। 106

अर्धकायं महावीरं चन्द्रादित्य विमर्दनम्।

सिंहिकागर्भ संभूतं तं राहुं प्रणमाम्यहम्।। 107 पलाशपुष्प संकाशं तारका ग्रह मस्तकम्।

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्।। 108