बालार्क प्रभ मिन्द्रनील जटिलं भस्मांग रागोज्ज्वलं

शान्तं नाद विलीन चित्तपवनं शार्दूल चर्मांबरम्।

ब्रह्मज्ञै स्सनकादिभिः परिवृतं सिद्धै स्समाराधितं

दत्तात्रेय मुपास्महे हृदि मुदा ध्येयं सदा योगिभिः।। 112

दत्तात्रेय स्वभाव प्रकटन पटिम प्रोज्ज्वलद् ज्ञानभासः

सर्वात्मत्वान्मदीयं जडधियमपि योनाविलां चर्करीति।

उत्सोत्पन्नाभवाचं समुदयतु गुरु र्मामकीनो महेज्यः

तद्ब्रह्मण्यं भजेहं गणपति यमिनं सच्चिदानंद दत्तम्।। 113