राम पञ्चक स्तोत्रम् Rama Panchaka Stotram

Offered to Sri Rama on the occasion of First Sri Rama Navami at the

new Ayodhya Dham Temple (17 April 2024)

जयतु जयतु रामो धर्म-मर्मज्ञ सम्राट् जयतु जयतु कौसल्यासुतो वेदवर्त्मा।

जयतु जयतु रामो लोक पीडाविनाशो जयतु जयतु सीता-नायको लोकनाथः।। १

तुदतु तुदतु रामो दैत्यहन्ता कुबुद्धिं तुदतु तुदतु लोके भावदारिद्र्यजालम्।

तुदतु तुदतु रामो धर्ममार्गादपेतिं तुदतु तुदतु राजा नित्यकार्पण्यतानम्॥ २

दिशतु दिशतु रामो धर्मसम्पत्तिमाद्यो दिशतु दिशतु देवो शुद्धमर्थं प्रजानाम्।

दिशतु दिशतु रामः कामितं श्रेयसेऽलं दिशतु दिशतु मह्यं सन्ततं मोक्षमार्गम्॥ ३

भजतु भजतु रामं लोकजातं विनीतं भजतु भजतु धर्मे श्रद्दधानं महत्ताम्।

भजतु भजतु रामान्मित्रवात्सल्यबन्धं भजतु भजतु सर्वो मोदमानन्दलाभम्॥ ४

भवतु भवतु रामो बुद्धिशुद्धौ सदा मे भवतु भवतु रामेणान्वितं चित्तमद्य।

भवतु भवतु रामे मोदमानं मनो मे भवतु भवतु रामाहङ्कृतिर्नित्यसत्या॥ ५

श्रीरामसेवनासक्ताः रामभक्तिप्रपत्तितः!।

श्रीरामपञ्चकस्तोत्रं प्रपठन्तु महाशयाः॥

जय जय श्रीराम

- वंशीकृष्ण घनपाठी, मैसूरु

अयोध्या- श्रीराम जन्मक्षेत्रे नूतनदेवायतने प्रथमश्रीरामनवमी शुभावसरे

श्रीरामचरणारविन्दयुगले समर्पितम्॥