शक्तिहस्तं विरूपाक्षं शिखिवाहं षडाननम्।
दारुणं रिपु रोगघ्नं भावयेत् कुक्कुटध्वजम्।। 38
युद्धेषु विबुधा स्सर्वे बाडबा श्चाध्वरेष्वपि।
गायन्ति यं कार्यसिद्ध्यै भजे षाण्मातुरं मुदा।। 39
मयूराधिरूढं महावाक्यगूढं मनोहारि देहं महच्चित्तगेहम्।
महादेवदेवं महावेदभावं महादेवबालं भजे लोकपालम्।। 40
अपस्मारकुष्ठक्षयार्शः प्रमेह- ज्वरोन्मादगुल्मादि रोगा महान्तः।
पिशाचाश्च सर्वे भवत्पत्रभूतिं विलोक्य प्रभो तारकारे द्रवंति।।41